Perhaps the most revered of the prayers to Lord Śiva, the Śiva Sahasra nāma has the power to remove every malefic aspect or blockage on Bṛhaspati, represented by Jupiter in vedic astrology. There are a number of variations of the Shiva sahasranāma in the ancient texts (about 18 scriptures). These include Mahabharata (anuśāsana-parva and śānti-parva versions), Liñga Purāṇa (2 versions Ch-65 and 97), Śiva Mahā Purāṇa (Kotirudra Saṁhitā), Vāyu Purāṇa, Brahmāṇḍa Purāṇa, Devi Mahā Bhāgavata Upa-purāṇa, Padma Purāṇa, Skanda Purāṇa, Vāmana Purāṇa, Mārkaṇḍeya Purāṇa, Saura Purāṇa, Bhairava Tantra, Bhringiridi Saṁhitā, Rudra Yamala Tantra, Śiva Rahasya Itihāsa, Ākāśa Kalpa Tantra. Agnideva has concluded that there are four primary versions of the Śiva sahasranāma[1].
| स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः। सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः॥ १॥ sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ | sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ || 1||जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः। हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः॥ २॥ jaṭī carmī śikhaṇḍī ca sarvāṁgaḥ sarvabhāvanaḥ | hariśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ || 2||प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः। श्मशानचारी भगवान् खचरो गोचरोऽर्दनः॥ ३॥ pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ | śmaśānacārī bhagavān khacaro gocaro’rdanaḥ || 3||अभिवाद्यो महाकर्मा तपस्वी भूत भावनः। उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः॥ ४॥ abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ | unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ || 4||महारूपो महाकायो वृषरूपो महायशाः। महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः॥ ५॥ mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ | mahā”tmā sarvabhūtaśca virūpo vāmano manuḥ || 5|| लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः। सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः। चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः। महातपा घोर तपाऽदीनो दीनसाधकः। योगी योज्यो महाबीजो महारेता महातपाः। दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः। गणकर्ता गणपतिर्दिग्वासाः काम एव च। कमण्डलुधरो धन्वी बाणहस्तः कपालवान्। स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः। दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च। अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि। त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः। गजहा दैत्यहा लोको लोकधाता गुणाकरः। कालयोगी महानादः सर्ववासश्चतुष्पथः। बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः। घोरो महातपाः पाशो नित्यो गिरि चरो नभः। अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः। तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः। न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः। विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः। विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः। उग्रतेजा महातेजा जयो विजयकालवित्। शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली। नक्षत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः। विमोचनः सुरगणो हिरण्यकवचोद्भवः। सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः। त्रिदशस्त्रिकालधृक् कर्म सर्वबन्धविमोचनः। सांख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः। सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः। लोहिताक्षो महाऽक्षश्च विजयाक्षो विशारदः। मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः। सर्वकामवरश्चैव सर्वदः सर्वतोमुखः। रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी। सर्वावासी श्रियावासी उपदेशकरो हरः। पक्षी च पक्षिरूपी चातिदीप्तो विशांपतिः। वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः। भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः। वज्रहस्तश्च विष्कंभी चमूस्तंभनैव च। वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः। ईशान ईश्वरः कालो निशाचारी पिनाकधृक्। नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः। चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च। बीजाध्यक्षो बीजकर्ताऽध्यात्मानुगतो बलः। दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः। अक्षरं परमं ब्रह्म बलवान् शक्र एव च। बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित्। महामेघनिवासी च महाघोरो वशीकरः। वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः। स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः। कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनाम्। महामूर्धा महामात्रो महानेत्रो दिगालयः। महानासो महाकंबुर्महाग्रीवः श्मशानधृक्। लंबनो लंबितोष्ठश्च महामायः पयोनिधिः। महानखो महारोमा महाकेशो महाजटः। स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः। मण्डली मेरुधामा च देवदानवदर्पहा। यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा। |
उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः। नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः॥ ६३॥ upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ | nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ || 63||द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः। नक्तं कलिश्च कालश्च मकरः कालपूजितः॥ ६४॥ dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ | naktaṁ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64||सगणो गण कारश्च भूत भावन सारथिः। भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः॥ ६५॥ sagaṇo gaṇa kāraśca bhūta bhāvana sārathiḥ | bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ || 65||अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः। शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिषेवितः॥ ६६॥ agaṇaścaiva lopaśca mahā”tmā sarvapūjitaḥ | śaṁkustriśaṁkuḥ saṁpannaḥ śucirbhūtaniṣevitaḥ || 66||आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः। शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः॥ ६७॥ āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ | śākho viśākhastāmroṣṭho hyamujālaḥ suniścayaḥ || 67|| कपिलोऽकपिलः शूरायुश्चैव परोऽपरः। परश्वधायुधो देवार्थ कारी सुबान्धवः। उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः। बन्धनो बन्धकर्ता च सुबन्धनविमोचनः। बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः। अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा। धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा। प्रभावः सर्वगो वायुरर्यमा सविता रविः। रतितीर्थश्च वाग्मी च सर्वकामगुणावहः। बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी। सर्वाशयो दर्भशायी सर्वेषां प्राणिनांपतिः। कैलास शिखरावासी हिमवद् गिरिसंश्रयः। वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः। सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः। प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः। भूतालयो भूतपतिरहोरात्रमनिन्दितः॥ ८३॥ वाहिता सर्वभूतानां निलयश्च विभुर्भवः। धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः। हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्। गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः। महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः। तोरणस्तारणो वायुः परिधावति चैकतः। नित्यात्मसहायश्च देवासुरपतिः पतिः। आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः। शिरोहारी विमर्शश्च सर्वलक्षण भूषितः। समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः। रत्न प्रभूतो रक्तांगो महाऽर्णवनिपानवित्। आरोहणो निरोहश्च शलहारी महातपाः। युगरूपो महारूपो पवनो गहनो नगः। बहुमालो महामालः सुमालो बहुलोचनः। वृषभो वृषभांकांगो मणि बिल्वो जटाधरः। निवेदनः सुधाजातः सुगन्धारो महाधनुः। मन्थानो बहुलो बाहुः सकलः सर्वलोचनः। छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान्। हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात्। सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत्। ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक्। गभस्तिर्ब्रह्मकृद् ब्रह्मा ब्रह्मविद् ब्राह्मणो गतिः। ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः। कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृक्। वरो वराहो वरदो वरेशः सुमहास्वनः। प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक्। चराचरात्मा सूक्ष्मात्मा सुवृषो गो वृषेश्वरः। व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः। कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्षपाः क्षणाः। सदसद् व्यक्तमव्यक्तं पिता माता पितामहः। निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः। देवासुरगुरुर्देवो देवासुरनमस्कृतः। देवासुरगणाध्यक्षो देवासुरगणाग्रणीः। देवासुरेश्वरोदेवो देवासुरमहेश्वरः। उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽंबरः। विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः। गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः। अभिरामः सुरगणो विरामः सर्वसाधनः। स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः। व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः। श्रीमान् श्रीवर्धनो जगत् ॐ नम इति॥ |
ॐ सौरमण्डलमध्यस्थं साम्बं संसारभेषजम्।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम्॥
om sauramaṇḍalamadhyasthaṁ sāmbaṁ saṁsārabheṣajam |
nīlagrīvaṁ virūpākṣaṁ namāmi śivamavyayam ||
nyāsaḥ
॥ न्यासः॥
ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः। अनुष्टुप् छन्दः। परमात्मा श्रीसदाशिवो देवता। महेश्वर इति बीजम्। गौरी शक्तिः। महेश एव संसेव्यः सर्वैरिति कीलकम्। श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः।
om asya śrīśivasahasranāmastotramahāmantrasya śambhurṛṣiḥ | anuṣṭup chandaḥ | paramātmā śrīsadāśivo devatā | maheśvara iti bījam | gaurī śaktiḥ | maheśa eva saṁsevyaḥ sarvairiti kīlakam | śrīsāmbasadāśiva prītyarthe mukhyasahasranāmajape viniyogaḥ |
Dhyana
॥ ध्यानम्॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम्।
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinetraṁ
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāge vahantam |
नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे
नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि॥
nāgaṁ pāśaṁ ca ghaṇṭāṁ varaḍamaruyutaṁ cāṁkuśaṁ vāmabhāge
nānālaṁkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||
ॐ नमो भगवते रुद्राय।
om namo bhagavate rudrāya |
Stotra
| ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः। हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः॥ १॥ om hiraṇyabāhuḥ senānīrdikpatistarurāṭ haraḥ | harikeśaḥ paśupatirmahān saspiñjaro mṛḍaḥ || 1||विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः। सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः॥ २॥ vivyādhī babhluśaḥ śreṣṭhaḥ paramātmā sanātanaḥ | sarvānnarāṭ jagatkartā puṣṭeśo nandikeśvaraḥ || 2||आततावी महारुद्रः संसारास्त्रः सुरेश्वरः। उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः॥ ३॥ ātatāvī mahārudraḥ saṁsārāstraḥ sureśvaraḥ | upavītirahantyātmā kṣetreśo vananāyakaḥ || 3||रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः। वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः॥ ४॥ rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ | vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ || 4||उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः। ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः॥ ५॥ uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ | oṣadhīśaḥ pañcavaktraḥ kṛtsnavīto bhayānakaḥ || 5|| सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः। मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः। प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः। व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात्। वामनो व्यापकः शूली वर्षीयानजडोऽनणुः। आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः। पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः। प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः। वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः। शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः। आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः। तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः। स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः। सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः। दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः। आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः। सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत्। अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः। मयस्करः शिवतरः खण्डपर्शुरजः शुचिः। शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः। आतार्यः सारभूतात्मा सारग्राही दुरत्ययः। शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः। वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः। यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः। पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः। निवेष्प्यो नियतोऽयन्ता पांसव्यः संप्रतापनः। लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः। भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः। मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः। निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः। सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः। समस्तदुःखविध्वंसी समस्तानन्दकारणः। रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः। विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः। भुजंगविलसत्कर्णो भुजंगवलयावृतः। मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः। मृगेन्द्रचर्मवसनो नरसिंहनिपातनः। दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः। यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः। लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः। ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः। कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः। वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः। कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः। पावनः पावको वामो महाकालो मदापहः। अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः। जगदानन्ददो जन्मजरामरणवर्जितः। कपालमालाभरणः कपाली विष्णुवल्लभः। कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः। विराट्रूपधरो धीरो वीरो वृषभवाहनः। महोन्नतो महाकायो महावक्षा महाभुजः। महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः। सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः। कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः। व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती। अतिरागी वीतरागी रागहेतुर्विरागवित्। विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः। नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः। क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक्। गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः। वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः। कालवित्कालकृत्कालो बलकृद् बलविद्बली। |
विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः। विश्वकारो महाविश्वो विश्वविश्वो विशारदः॥ ६८॥ viśvapradātā viśveśo viśvamātraikasaṁśrayaḥ | viśvakāro mahāviśvo viśvaviśvo viśāradaḥ || 68||variation विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः। विद्याकारो महाविद्यो विद्याविद्यो विशारदः॥६८॥ vidyāpradātā vidyeśo vidyāmātraikasaṁśrayaḥ | vidyākāro mahāvidyo vidyāvidyo viśāradaḥ ||68||वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः। ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः॥ ६९॥ vasantakṛdvasantātmā vasanteśo vasantadaḥ | grīṣmātmā grīṣmakṛd grīṣmavardhako grīṣmanāśakaḥ || 69||प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः। प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः॥ ७०॥ prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ | prāvṛṭpravardhakaḥ prāvṛṇṇāthaḥ prāvṛḍvināśakaḥ || 70||शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः। शरन्नाथः शरत्कालनाशकः शरदाश्रयः॥ ७१॥ śaradātmā śaraddhetuḥ śaratkālapravartakaḥ | śarannāthaḥ śaratkālanāśakaḥ śaradāśrayaḥ || 71|| हिमस्वरूपो हिमदो हिमहा हिमनायकः। प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः। ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः। सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः। जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः। वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः। पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः। ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः। प्रलयानलकृद् दिव्यः प्रलयानलनाशकः। अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः। कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः। स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः। सामप्रियः सामवेत्ता सामगः सामगप्रियः। लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः। शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः। जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः। पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः। कैलासशिखरावासः कैलासशिखरप्रियः। सोमः सोमकलाकारो महातेजा महातपाः। ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः। पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः। सारभूतः स्वरमयो रसभूतो रसाश्रयः। निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः। वृन्दारकप्रियतमो वृन्दारकवरार्चितः। महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः। लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः। वेदपो देवदेवेशो देवदेवोत्तमोत्तमः। बीजाधारो बीजरूपो निर्बीजो बीजनाशकः। पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः। कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः। मनोजवो जीवहेतुरन्धकासुरसूदनः। अव्यक्तलक्षणो योगी योगीशो योगपुंगवः। भववैद्यो योगिवैद्यो योगिसिंहहृदासनः। आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः। अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः। अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः। विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः। अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः। परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः। सुखप्रदः सुखाकारः सुखदुःखविवर्जितः। अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः। अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः। गौरीविलाससदनो नानागानविशारदः। विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः। रत्नांगदांगो रत्नेशो रत्नरञ्जितपादुकः। नानाविधानेकरत्नलसत्कुण्डलमण्डितः। गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः। रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः। लीलावलम्बितवपुर्भक्तमानसमन्दिरः। कस्तूरीविलसत्फालो दिव्यवेषविराजितः। देवासुरगुरुस्तव्यो देवासुरनमस्कृतः। सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः। अविद्यालेशरहितो नानाविद्यैकसंश्रयः। सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः। शरणागतदीनार्तपरित्राणपरायणः। भोक्ता भोजयिता जेता जितारिर्जितमानसः। आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः। व्योमकेशो भीमवेषो गौरीपतिरनामयः। वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः। हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः। मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः। मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः। महेश्वरो महादेवः परब्रह्म सदाशिवः॥ १३४॥ श्री परब्रह्म सदाशिव ॐ नम इति। |
uttara pīṭhikā
उत्तर पीठिका
एवमेतानि नामानि मुख्यानि मम षण्मुख। शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम्॥ १॥
evametāni nāmāni mukhyāni mama ṣaṇmukha | śubhadāni vicitrāṇi gauryai proktāni sādaram || 1||
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः। शिवलिंगसमीपस्थो निस्संगो निर्जितासनः॥ २॥
vibhūtibhūṣitavapuḥ śuddho rudrākṣabhūṣaṇaḥ | śivaliṁgasamīpastho nissaṁgo nirjitāsanaḥ || 2||
एकाग्रचित्तो नियतो वशी भूतहिते रतः। शिवलिंगार्चको नित्यं शिवैकशरणः सदा॥ ३॥
ekāgracitto niyato vaśī bhūtahite rataḥ | śivaliṁgārcako nityaṁ śivaikaśaraṇaḥ sadā || 3||
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम्। एवमुक्तगुणोपेतः स देवैः पूजितो भवेत्॥ ४॥
mama nāmāni divyāni yo japedbhaktipūrvakam | evamuktaguṇopetaḥ sa devaiḥ pūjito bhavet || 4||
संसारपाशसंबद्धजनमोक्षैकसाधनम्। मन्नामस्मरणं नूनं तदेव सकलार्थदम्॥ ५॥
saṁsārapāśasaṁbaddhajanamokṣaikasādhanam | mannāmasmaraṇaṁ nūnaṁ tadeva sakalārthadam || 5||
मन्नामैव परं जप्यमहमेवाक्षयार्थदः। अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात्॥ ६॥
mannāmaiva paraṁ japyamahamevākṣayārthadaḥ | ahameva sadā sevyo dhyeyo muktyarthamādarāt || 6||
विभूतिवज्रकवचैः मन्नामशरपाणिभिः। विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम्॥ ७॥
vibhūtivajrakavacaiḥ mannāmaśarapāṇibhiḥ | vijayaḥ sarvato labhyo na teṣāṁ dṛśyate bhayam || 7||
न तेषां दृश्यते भयम् ॐ नम इति।
na teṣāṁ dṛśyate bhayam om nama iti |
श्रीसूत उवाच
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः॥ ८॥
śrīsūta uvāca
ityudīritamākarṇya mahādevena tadvacaḥ |
santuṣṭaḥ ṣaṇmukhaḥ śambhuṁ tuṣṭāva girijāsutaḥ || 8||
श्रीस्कन्द उवाच
नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो।
नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश॥ ९॥
śrīskanda uvāca
namaste namaste mahādeva śambho namaste namaste prapannaikabandho |
namaste namaste dayāsārasindho namaste namaste namaste maheśa || 9||
नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन्।
नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश॥ १०॥
namaste namaste mahāmṛtyuhārin namaste namaste mahāduḥkhahārin |
namaste namaste mahāpāpahārin namaste namaste namaste maheśa || 10||
नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे।
नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश॥ ११॥
namaste namaste sadā candramaule namaste namaste sadā śūlapāṇe |
namaste namaste sadomaikajāne namaste namaste namaste maheśa || 11||
वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय।
शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय॥ १२॥
vedāntavedyāya mahādayāya kailāsavāsāya śivādhavāya |
śivasvarūpāya sadāśivāya śivāsametāya namaḥśivāya || 12||
ॐ नमःशिवाय इति
om namaḥśivāya iti
श्रीसूत उवाच
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम्।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः॥ १३॥
śrīsūta uvāca
iti stutvā mahādevaṁ sarvavyāpinamīśvaram |
punaḥpraṇamyātha tataḥ skandastasthau kṛtāñjaliḥ || 13||
भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा॥ १४॥
bhavanto’pi muniśreṣṭhāḥ sāmbadhyānaparāyaṇāḥ |
śivanāmajapaṁ kṛtvā tiṣṭhantu sukhinaḥ sadā || 14||
शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः॥ १५॥
śiva eva sadā dhyeyaḥ sarvadevottamaḥ prabhuḥ |
śiva eva sadā pūjyo muktikāmairna saṁśayaḥ || 15||
महेशान्नाधिको देवः स एव सुरसत्तमः।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः॥ १६॥
maheśānnādhiko devaḥ sa eva surasattamaḥ |
sa eva sarvavedāntavedyo nātrāsti saṁśayaḥ || 16||
जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम्॥ १७॥
janmāntarasahasreṣu yadi taptaṁ tapastadā |
tasya śraddhā mahādeve bhaktiśca bhavati dhruvam || 17||
सुभगा जननी तस्य तस्यैव कुलमुन्नतम्।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे॥ १८॥
subhagā jananī tasya tasyaiva kulamunnatam |
tasyaiva janma saphalaṁ yasya bhaktiḥ sadāśive || 18||
ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं संपूजयन्त्यादरात्।
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा॥ १९॥
ye śambhuṁ surasattamaṁ suragaṇairārādhyamīśaṁ śivaṁ śailādhīśasutāsametamamalaṁ saṁpūjayantyādarāt |
te dhanyāḥ śivapādapūjanaparāḥ hyanyo na dhanyo janaḥ satyaṁ satyamihocyate munivarāḥ satyaṁ punaḥ sarvathā || 19||
सत्यं पुनः सर्वथा ॐ नम इति।
satyaṁ punaḥ sarvathā om nama iti |
नमः शिवाय साम्बाय सगणाय ससूनवे।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे॥ २०॥
namaḥ śivāya sāmbāya sagaṇāya sasūnave |
pradhānapuruṣeśāya sargasthityantahetave || 20||
नमस्ते गिरिजानाथ भक्तानामिष्टदायक।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे॥ २१॥
namaste girijānātha bhaktānāmiṣṭadāyaka |
dehi bhaktiṁ tvayīśāna sarvābhīṣṭaṁ ca dehi me || 21||
साम्ब शम्भो महादेव दयासागर शंकर।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे॥ २२॥
sāmba śambho mahādeva dayāsāgara śaṁkara |
maccittabhramaro nityaṁ tavāstu padapaṁkaje || 22||
सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु॥ २३॥
sarvārtha śarva sarveśa sarvottama maheśvara |
tava nāmāmṛtaṁ divyaṁ jihvāgre mama tiṣṭhatu || 23||
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत्।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर॥ २४॥
yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yad bhavet |
tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara || 24||
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम्।
विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो॥ २५॥
karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vā’parādham |
vihitamavihitaṁ vā sarvametat kṣamasva jayajaya karuṇābdhe śrīmahādeva śambho || 25||
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि॥ २६॥
kāyena vācā manasendriyairvā buddhyā”tmanā vā prakṛteḥ svabhāvāt |
karomi yadyat sakalaṁ parasmai sadāśivāyeti samarpayāmi || 26||





We have an excellent pandit Divākar ‘Deva’ Mishra, who is from the priests of Vindhyāvāsini Siddha Pīṭha to guide you through the hundreds of temples of Kāśi [Varanasi] and neighbouring regions. He can organise your pūjā, keep you safe and take care. He is supported by an English-speaking well-travelled spouse ‘Supriya Mishra’. Please contact them directly for any services, remedial pūjā and tours. They handled the 60+ member Kāśi Jyotiṣa Group 2022.






DBC offers online courses in jyotish (Vedic Astrology) taught directly by Sanjay Rath as per the tradition, through narrated power points and other audio tools. The courses are at different levels, from the beginners through the intermediate to the advanced and are known as SoHamsa | DBC courses, with individual classrooms and assistant teachers
Sagittarius Publications is the publisher and distributor the popular quaterly magazine the Jyotish Digest, as well as many thorough books on the subject of Vedic Astrology or Jyotish.